|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.67. अध्यायः 067
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति रन्तिदेवचरित्रकीर्तनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-67-0x(4422)(47181)
साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम।
यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः॥ 7-67-1(47182)
गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः।
पक्वंपक्वं दिवारात्रं वरान्नममृतोपमम्॥ 7-67-2(47183)
न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत।
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे॥ 7-67-3(47184)
उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम्।
बहवः स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम्॥ 7-67-4(47185)
नदी महानसाद्यस्य प्रवृतक्ता चर्मराशितः।
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा॥ 7-67-5(47186)
ब्राह्मणेभ्यो ददन्निष्कान्सौवर्णान्स प्रभावतः।
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते॥ 7-67-6(47187)
तुभ्यन्तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः।
तत पुनः समाश्वास्य निष्कानेव प्रयच्छति॥ 7-67-7(47188)
अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः।
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन्॥ 7-67-8(47189)
द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत्।
भविष्यति न सन्देह एवं राजाऽददद्वसु॥ 7-67-9(47190)
सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान्।
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा॥ 7-67-10(47191)
अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः।
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत्॥ 7-67-11(47192)
ऋषिभ्यः करकान्कुम्भान्स्थालीः पिठरमेव च।
शयनासनायानानि प्रासादांश्च गृहाणि च॥ 7-67-12(47193)
वृक्षांश्च विविधान्दद्यादन्नानि च धनानि च।
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः॥ 7-67-13(47194)
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः।
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम्॥ 7-67-14(47195)
नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि।
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति॥ 7-67-15(47196)
व्यक्तं वस्वोकसारेयमित्युचुस्तत्र विस्मिताः।
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत्॥ 7-67-16(47197)
आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः।
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः॥ 7-67-17(47198)
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा।
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा॥ 7-67-18(47199)
तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत।
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः॥ 7-67-19(47200)
कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ 7-67-20(47201)
पुत्रात्पुण्डतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-67-21(47202)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तषष्टितमोऽध्यायः॥ 67 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-67-3 न्यायेनाधिगतं वित्तं येनाक्षय्यं इति क.ङ. पाठः॥ 5-67-8 एकान्हा दास्यति पुनः कोऽन्यस्तत्सम्प्रदास्यति इति घ.झ.पाठः॥ 5-67-10 पारिभाषिकं निष्कमाह सहस्रश इति॥ 5-67-11 अध्यर्धमासं पक्षे पक्षे इत्यर्थः। शतं समा इति वाक्यशेषात्॥ 5-67-15 धनं च पूर्णमासाद्य इति घ.ङ.पाठः॥ 5-67-16 वस्वोकसारा सलोप आर्षः। कनकमयानि ओकांसि सारो यस्याः सा तथा॥ 5-67-18 नाद्याश्नीत यथा पुरा इति क. पाठः॥ 5-67-67 सप्तषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|